|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.225. अध्यायः 225
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति दान्तलक्षणकथनपूर्वकं दमप्रशंसनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-225-0x(6131)(74217)
किं कुर्वन्सुखमाप्नोति किं कुर्वन्दुःखमाप्नुयात्।
किं कुर्वन्निर्भयो लोके सिद्धश्चरति भारत॥ 12-225-1(74218)
भीष्म उवाच। 12-225-2x(6132)
दममेव प्रशंसन्ति वृद्धाः श्रुतिसमाधयः।
सर्वेषामेव वर्णानां ब्राह्मणस्य विशेषतः॥ 12-225-2(74219)
नादान्तस्य क्रियासिद्धिर्यथावदुपपद्यते।
क्रिया तपश्च देवाश्च दमे सर्वं प्रतिष्ठितम्॥ 12-225-3(74220)
दमस्तेजो वर्धयति पवित्रं दम उच्यते।
विपाष्मा निर्भयो दान्तः पुरुषो विन्दते महत्॥ 12-225-4(74221)
सुखं दान्तः प्रस्वपिति सुखं च प्रतिबुध्यते।
सुखं लोके विपर्येति मनश्चास्य प्रसीदति॥ 12-225-5(74222)
तेजो दमन ध्रियते तत्र तीक्ष्णोऽधिगच्छति।
अमित्रांश्च बहून्नित्यं पृथगात्मनि पश्यति॥ 12-225-6(74223)
क्रव्याद्भ्य इव भूतानामदान्तेभ्यः सदा भयम्।
तेषां विप्रतिषेधार्थं राजा सृष्टः स्वयंभुवा॥ 12-225-7(74224)
आश्रमेषु च सर्वेषु दम एव विशिष्यते। 12-225-8b`धर्मः संरक्ष्यते तैस्तु यतस्ते धर्मसेतवः।'
यच्च तेषु फलं धर्म्यं भूयो दान्ते तदुच्यते॥ 12-225-8(74225)
तेषां लिङ्गानि वक्ष्यानि येषां समुदयो दमः।
अकार्पण्यमसंरम्भः संतोषः श्रद्दधानता॥ 12-225-9(74226)
अक्रोध आर्जवं नित्यं नातिवादोऽभिमानिता।
गुरुपूजाऽनसूया च दया भूतेष्वपैशुनम्॥ 12-225-10(74227)
जनवादमृषावादस्तुतिनिन्दाविवर्जनम्।
साधुकामांश्च स्पृहयेन्नायतिं प्रत्ययेषु च॥ 12-225-11(74228)
अवैरकृत्सूपचारः समो निन्दाप्रशंसयोः।
सुवृत्तः शीलसंपन्नः प्रसन्नात्माऽऽत्मवाञ्शुचिः॥ 12-225-12(74229)
प्राप्य लोके च सत्कारं स्वर्गं वै प्रेत्य गच्छति।
दुर्गमं सर्वभूतानां प्रापयन्मोदते सुखी॥ 12-225-13(74230)
सर्वभूतहिते युक्तो न स्म यो द्विषते जनम्।
महाह्रद इवाक्षोभ्यः प्राज्ञस्तृप्तः प्रसीदति॥ 12-225-14(74231)
अभयं यस्य भूतेभ्यः सर्वेषामभयं यतः।
नमस्यः सर्वभूतानां दान्तो भवति बुद्धिमान्॥ 12-225-15(74232)
न हृष्यति महत्यर्थे व्यसने च न शोचति।
सदाऽपरिमितप्रज्ञः स दान्तो द्विज उच्यते॥ 12-225-16(74233)
कर्मभिः श्रुतसंपन्नः सद्भिराचारेतः शुचिः।
सदैव दमसंयुक्तस्तस्य भुङ्क्ते महाफलम्॥ 12-225-17(74234)
अनसूयाऽक्षमा शान्तिः संतोषः प्रियवादिता।
सत्यं दानमनायासो नैष मार्गो दुरात्मनाम्॥ 12-225-18(74235)
कामक्रोधौ च लोभश्च परस्येर्ष्या विकत्थना।
`अतुष्टिरनृतं मोह एष मार्गो दुरात्मनाम्॥' 12-225-19(74236)
कामक्रोधौ वशे कृत्वा ब्रह्मचारी जितेन्द्रियः।
विक्रम्य घोरे तमसि ब्राह्मणः संशितव्रतः।
कालाकाङ्क्षी चरेल्लोकान्निरपाय इवात्मवान्॥ ॥ 12-225-20(74237)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि पञ्चविंशत्यधिकद्विशततमोऽध्यायः॥ 225॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-225-2 श्रुतिसमाधयो वेदद्रष्ठारः॥ 12-225-3 तपश्च सत्यं चेति झ. पाठः॥ 12-225-6 तीक्ष्णो राजसः। अमित्रान् कामादीन्॥ 12-225-7 क्रव्याद्भ्यो व्याघ्रादिभ्यो मांसभक्षकेभ्यः॥ 12-225-8 भूयोऽधिकम्॥ 12-225-9 समुदेत्यस्मादिति समुदयो हेतुः। अकार्पण्यमदीनत्वम्। असंरम्भोऽभिनिवेशाभावः॥ 12-225-11 प्रत्ययेषु सुखदुःखाद्यनुभवेषु। आयतिमुत्तरकालम्। न स्पृहयेत्। प्राप्तं सुखादिकं भुञ्जीत नतु कालान्तरीयौ तज्जौ हर्षविषादौ चिन्तनीयावित्यर्थः॥ 12-225-12 सूपचारः शाठ्यवर्जितादरः॥ 12-225-13 दुर्गमं दुष्काले दुर्लभमन्नादि प्रापयन् दयावानित्यर्थः॥ 12-225-15 दान्तो भवति धर्मवित् इति ध. पाठः॥ 12-225-19 डम्भो दर्पश्च मानश्च नैष मार्गो महात्मनाम् इति ट. ड. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|